|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.51. अध्यायः 051
Mahabharata - Karna Parva - Chapter Topics
सङ्कुलयुद्धम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-51-0x(4969)(57486)
भीमसेनं सपाञ्चालं चेदिकेकयसंवृतम्।
सेनापतिः स्वयं क्रुद्धो वारयामास सायकैः॥ 8-51-1(57487)
ततस्तु चेदिकारूशान्सृढ्जयांश्च महारथान्।
कर्णो जघान समरे भीमसेनस्य पश्यतः॥ 8-51-2(57488)
भीमसेनस्ततः कर्णे विहाय रथसत्तमम्।
प्रययौ कौरवं सैन्यं कक्षमग्निरिव ज्वलन्॥ 8-51-3(57489)
सूतपुत्रोऽपि समरे पाञ्चालान्केकयांस्तथा।
सृञ्जयांश्च महेष्वासान्निजघानं सहस्रशः॥ 8-51-4(57490)
संशप्तकेषु पार्थश्च कौरवेषु वृकोदरः।
पाञ्चालेषु तथा कर्णः क्षयं चक्रुर्महारथाः॥ 8-51-5(57491)
ते क्षत्रिया दह्यामानास्त्रिभिस्तैः पावकोपमैः।
जग्मुर्विनाशं समरे राजन्दुर्मन्त्रिते तव॥ 8-51-6(57492)
ततो दुर्योधनः क्रुद्दो नकुलं नवभिः शरैः।
विव्याध भरतश्रेष्ठ चतुरश्चास्य वाजिनः॥ 8-51-7(57493)
ततः परममेयात्मा तव पुत्रो जनाधिप।
क्षुरेण सहदेवस्य ध्वजं चिच्छेद काञ्चनम्॥ 8-51-8(57494)
नकुलस्तु ततः क्रुद्धस्तव पुत्रं च सप्तभिः।
जघान समरे राजन्सहदेवश्च पञ्चभिः॥ 8-51-9(57495)
तावुभौ भरतश्रेष्ठौ ज्येष्ठौ सर्वधनुष्मताम्।
विव्याधोरसि सङ्क्रुद्धः पञ्चभिः पञ्चभिः शरैः॥ 8-51-10(57496)
ततोऽपराभ्यां भल्लाब्यां धनुषी समकृन्तत।
यमयोः प्रसभं वीरो विव्याधाशु त्रिभिस्त्रिभिः॥ 8-51-11(57497)
तावन्ये धनुषी श्रेष्ठे शक्रचापनिभे शुभे।
प्रगृह्य रेजतुः शूरौ देवपुत्रसमौ युधि॥ 8-51-12(57498)
ततस्तौ रभसौ युद्धे भ्रातरौ भ्रातरं युधि।
शरैर्ववर्षतुर्घोरैर्महामेघौ यथाऽचलम्॥ 8-51-13(57499)
ततः क्रुद्धो महाराज तव पुत्रो महारथः।
पाण़्डुपुत्रौ महेष्वासौ वारयामास पत्रिभिः॥ 8-51-14(57500)
धनुर्मण्डलमेवास्य ददृशे युधि भारत।
सायकाश्चाप्यदृश्यन्त निश्चरन्तः समन्ततः॥ 8-51-15(57501)
`तस्य सायकसञ्छन्नौ माद्रेयौ न विरेजतुः।
मेघच्छन्नौ यथा व्योम्नि चन्द्रसूर्यौ गतप्रभौ॥ 8-51-16(57502)
ते तु बाणा महाराज स्वर्णपुङ्खाः शिलाशिताः'।
आच्छादयन्दिशः सर्वाः सूर्यस्येव मरीचयः॥ 8-51-17(57503)
वाणभूते ततस्तस्मिन्सञ्छन्ने च नभस्तले।
राज्ञस्तु ददृशे रूपं कालान्तकयमोपमम्॥ 8-51-18(57504)
पराक्रमं तु तं दृष्ट्वा तव सूनोर्महारथाः।
मृत्योरुपान्तिकं प्राप्तौ माद्रीपुत्रौ स्म मेनिरे॥ 8-51-19(57505)
ततः सेनापती राजन्पाण्डवानां महारथः।
पार्षतः प्रययौ तत्र यत्र राजा सुयोधनः॥ 8-51-20(57506)
माद्रीपुत्रौ ततः शूरौ व्यतिक्रम्य महारथौ।
धृष्टद्युम्नस्तव सुतं पीडयामास सायकैः॥ 8-51-21(57507)
तमविध्यदमेयात्मा तव पुत्रो ह्यमर्पणः।
पाञ्चाल्यं पञ्चविंशत्या प्रहस्य पुरुषर्षभः॥ 8-51-22(57508)
ततः पुनरमेयात्मा तव पुत्रो ह्यमर्षणः।
विद्ध्वा ननाद पाञ्चाल्यं षष्ट्या पञ्चभिरेव च॥ 8-51-23(57509)
तथास्य सशरं चापं मुष्टिदेशे विशाम्पते।
क्षुरप्रेण सुतीक्ष्णेन राजा चिच्छेद संयुगे॥ 8-51-24(57510)
तदपास्य धनुश्छिन्नं पाञ्चाल्यः शत्रुकर्शनः।
अन्यदादत्त वेगेन धनुर्भारसहं नवम्॥ 8-51-25(57511)
क्रोधाद्रुधिररक्ताक्षः संरम्भात्प्रज्वलन्निव।
अशोभत महेष्वासो धृष्टद्युम्नः कृतव्रणः॥ 8-51-26(57512)
स पञ्चदश नाराचाञ्श्वसतः पन्नगानिव।
जिघांसुर्भरतश्रेष्ठं धृष्टद्युम्नो व्यपासृजत्॥ 8-51-27(57513)
ते वर्म हेमविकृतं भित्त्वा राज्ञः शिलीमुखाः।
विविशुर्वसुधां वेगात्कङ्कबर्हिणवाससः॥ 8-51-28(57514)
सोऽतिविद्धो महाराज पुत्रस्तेऽतिव्यराजत।
वसन्तकाले सुमहान्प्रफुल्ल इव किंशुकः॥ 8-51-29(57515)
स च्छिन्नवर्मा नाराचप्रहारैर्झर्झरीकृतः।
धृष्टद्युम्नस्य भल्लेन क्रुद्धश्चिच्छेद कार्मुकम्॥ 8-51-30(57516)
अथैनं छिन्नधन्वानं त्वरमाणो महीपतिः।
सायकैर्दशभी राजन्भ्रुवोर्मध्ये समार्पयत्॥ 8-51-31(57517)
तस्य तेऽशोभयन्वक्त्रं कर्मारपरिमार्जिताः।
प्रफुल्लं पङ्कजं यद्वद्धमरा मधुलिप्सवः॥ 8-51-32(57518)
तदपास्य धनुश्छिन्नं दृष्टद्युम्नो महामनाः।
अन्यदादत्त वेगेन धनुर्भल्लांश्च षोडश॥ 8-51-33(57519)
ततो दुर्योधनस्याश्वान्हत्वा सूतं च पञ्चभिः।
धनुश्चिच्छेद भल्लेन जातरूपपरिष्कृतम्॥ 8-51-34(57520)
रथं सोपस्करं छत्रं शक्तिं खङ्गं गदां ध्वजम्।
भल्लैश्चिच्छेद दशभिः पुत्रस्य तव पार्षतः॥ 8-51-35(57521)
तपनीयाङ्गदं छत्रं नागं मणिमयं शुभम्।
ध्वजं कुरुपतेश्छिन्नं ददृशुः सर्वपार्थिवाः॥ 8-51-36(57522)
दुर्योधनं तु विरथं छिन्नवर्मायुधध्वजम्।
भ्रातरं समुदैक्षन्त सोदरा भरतर्षभ॥ 8-51-37(57523)
तमारोप्य रथे राजन्कुण्डधारो महारथम्।
अपाहरदसम्भ्रान्तो धृष्टद्युम्नस्य पश्यतः॥ 8-51-38(57524)
कर्णस्तु सात्यकिं हित्वा राजगृघ्नुरमर्षणः।
द्रोमहन्तारमुग्रेषुं ससाराभिमुखो रणे॥ 8-51-39(57525)
तं पृष्ठतोऽन्वयात्तूर्णं शैनेयोऽभिहतः शरैः।
वारणं जघनोपान्ते विषाणाभ्यामिव द्विपः॥ 8-51-40(57526)
स भारतपुरोगानां राज्ञां च सुमहात्मनाम्।
कर्णपार्षतयोर्युद्वे सङ्क्रद्धानां महारणे॥ 8-51-41(57527)
न पाण्डवानां नास्माकं कश्चिदासीत्पराङ्मुखः।
प्रत्यदृश्यत यत्कर्णः पाञ्चालांस्त्वरितो ययौ॥ 8-51-42(57528)
तस्मिन्क्षणे नरश्रेष्ठ गजवाजिरथक्षयः।
प्रादुरासीदुभयतो राजन्मध्यगतेऽहनि॥ 8-51-43(57529)
पाञ्चालास्तु महाराज त्वरिता विजिगीषवः।
सर्वतोऽभ्यद्रवन्कर्णं पतत्त्रिण इव द्रुमम्॥ 8-51-44(57530)
तेषामाधिरथिः क्रुद्धः प्रधानान्वै तरस्विनः।
विचिन्वन्निव बाणौघैः समासादयदग्रतः॥ 8-51-45(57531)
व्याघ्रकेतुः सुशर्मा च शुक्रश्चित्रायुधः क्रतुः।
दुर्जयो रोचमानश्च सिंहसेनस्तथाऽष्टमः।
महता रथवंशेन परिवव्रुर्नरोत्तमम्॥ 8-51-46(57532)
सृजन्तः सायकांस्तूर्णं कर्णमाहवशोभिनम्।
यतमानांस्तु ताञ्शूरान्मनुजेन्द्रः शितैः शरैः।
अष्टाभिरष्टौ राधेयः पाञ्चालान्न्यहनद्रणे॥ 8-51-47(57533)
अथापरान्महाराज सूतपुत्रः प्रतापवान्।
जघान बहुसाहस्रान्योधान्युद्वविशारदान्॥ 8-51-48(57534)
विष्णुं च विष्णुवर्माणं देवापिं भद्रमेव च।
दण्डधारं च समरे चित्रं चिंत्रायुधं हरिम्॥ 8-51-49(57535)
सिंहकेतुं रोचमानं शलभं च महारथम्।
निजघान सुसङ्क्रुद्वश्चेदीनां च महारथान्॥ 8-51-50(57536)
तेषामाददतः प्राणानासीदाधिरथेर्वपुः।
शोणिताभ्युक्षिताङ्गस्य रुद्रस्यैवातिभैरवम्॥ 8-51-51(57537)
तत्र भारत कर्णेन मातङ्गास्ताडिताः शरैः।
सर्वतोऽभ्यद्रवन्भीताः कुर्वन्तो महदाकुलम्॥ 8-51-52(57538)
निपेतुरुर्व्यां समरे कर्णसायकताडिताः।
कुर्वन्तो विविधान्नादान्वज्रनुन्ना इवाचलाः॥ 8-51-53(57539)
गजवाजिमनुष्यैश्च निपतद्भिः समन्ततः।
रथैर्भग्नैर्ध्वजैश्चैव समास्तीर्यत मेदिनी॥ 8-51-54(57540)
नैवं भाष्मो न च द्रोणो नान्ये युधि च तावकाः।
चक्रुः स्म तादृशं कर्म यादृशं कृतवान्रणे॥ 8-51-55(57541)
मृगमध्ये यथा सिंहो दृश्यते निर्भयश्चरन्।
पाञ्चालानां तथा मध्ये कर्णोऽचरदभीतवत्॥ 8-51-56(57542)
सूतपुत्रोऽथ नागेषु हयेषु च रथेषु च।
नरेषु च नरव्याघ्रश्चकार कदनं महत्॥ 8-51-57(57543)
यथा मृगगणांस्त्रस्तान्सिंहो द्रावयते दिशः।
पाञ्चालानां रथव्रातान्कर्णो व्यद्रावयत्तथा॥ 8-51-58(57544)
सिंहं स्म हि यथा प्राप्य न जीवन्ति मृगाः क्वचित्।
तथा कर्णमनुप्राप्ता न जीवन्ति स्म सृञ्जयाः॥ 8-51-59(57545)
वैश्वानरमुखं प्राप्य दह्यन्ते शलभा यथा।
कर्णाग्रिं समरे प्राप्य दग्धा भारत सृञ्जयः॥ 8-51-60(57546)
चेदिष्वेकेन कर्णेन पाञ्चालेषु च भारत।
वेश्राव्य नाम निहता बहवः शूरसम्पताः॥ 8-51-61(57547)
मम चासीन्मती राजन्दृष्ट्वा कर्णस्य विक्रमम्।
नैकोऽप्याधिरथेर्जीवन्पाञ्चाल्यो मोक्ष्यते युधि॥ 8-51-62(57548)
सङ्ख्ये विमर्द्य पाञ्चालान्सूतपुत्रः पुनः पुनः।
अभ्यधावत्सुसङ्क्रुद्धः कुन्तीपुत्रं युधिष्ठिरम्॥ 8-51-63(57549)
धृष्टद्युम्नश्च राजानं द्रौपदेयाश्च मारिष।
परिवव्रुरमित्रघ्नं शतशश्चापरे जनाः॥ 8-51-64(57550)
शिखण्डी सहदेवश्च नकुलो नाकुलिस्तथा।
जनमेजयः शिनेर्नप्ता बहवश्च प्रभद्रकाः॥ 8-51-65(57551)
एते पुरोगमा भूत्वा धृष्टद्युम्नश्च संयुगे।
कर्णमस्यन्तमिष्वस्त्रैस्ततक्षुरमितौजसम्॥ 8-51-66(57552)
तांस्तत्राधिरथिः सङ्ख्ये चेदिपाञ्चालपाण्डवान्।
एको बहूनभ्यपतद्गरुत्मानिव पन्नगान्॥ 8-51-67(57553)
तैः कर्णस्याभवद्युद्धं घोररूपं विशाम्पते।
तादृग्यादृक्पुरावृत्तं देवानां दानवैः सह॥ 8-51-68(57554)
तान्समेतान्महेष्वासाञ्शरवर्षौधवर्षिणः।
एको व्यधमदव्यग्रस्तमांसीव दिवाकरः॥ 8-51-69(57555)
भीमसेनस्तु संसक्ते राधेये पाण्डवैः सह।
सर्वतोऽभ्यहनत्क्रुद्धो यमदण्डनिभैः शरैः॥ 8-51-70(57556)
बाह्लीकान्केकयान्मात्स्यान्वासात्यान्मद्रसैन्धवान्।
एकः सङ्ख्ये महेष्वासो योधयन्बह्वशोभत॥ 8-51-71(57557)
तत्र मर्मसु भीमेन नाराचैस्ताडिता गजाः।
प्रपतन्तो हतारोहाः कम्पयन्ति स्म मेदिनीम्॥ 8-51-72(57558)
वाजिनश्च हतारोहाः पत्तयश्च गतासवः।
अशेरत महाराज वमन्तो रुधिरं बहु॥ 8-51-73(57559)
ताडिताः सहसा नागा भीमसेनेन मारिष।
निपतन्ति महावेगा वज्ररुग्णा इवाचलाः॥ 8-51-74(57560)
पतितैस्तैर्महाराज वेगवद्भिर्महारथैः।
शुशुभे वसुधा राजन्विकीर्णैरिव पर्वतैः॥ 8-51-75(57561)
सहस्रशश्च रथिनः पत्तयः पतितायुधाः।
अक्षताः समदृश्यन्त भीमाद्भीता गतासवः॥ 8-51-76(57562)
रथिभिः सादिभिः सूतैः पादातैर्वाजिभिर्गजैः।
भीमसेनशरैश्छिन्नैराच्छन्ना सुधाभवत्॥
तत्स्तम्भितमिवातिष्ठद्भीमसेनभयार्दितम्। 8-51-77(57563)
दुर्योधनबलं सर्वं निरुत्साहं कृतं रणे।
निश्चेष्टं तुमुलं दीनं बभौ तस्मिन्महारणे॥ 8-51-78(57564)
प्रसन्नसलिले काले यथा स्यात्सागरो नृप।
तद्वत्तव बलं तद्वै निश्चलं समवस्थितम्॥ 8-51-79(57565)
मन्युवीर्यबलोपेतं दर्पात्प्रत्यवरोपितम्।
अभवत्तव पुत्रस्य तत्सैन्यं निष्प्रभं तदा॥ 8-51-80(57566)
ते बले भरतश्रेष्ठ वध्यमाने परस्परम्।
रुधिरौघपरिक्लिन्ने रुधिरार्द्रे बभूवतुः॥ 8-51-81(57567)
सूतपुत्रोऽवधीत्क्रुद्वः पाण्डवानामनीकिनीम्।
भीमसेनः कुरूणां च त्रिगर्तानां धनञ्जयः॥ 8-51-82(57568)
वर्तमाने तथा रोद्रे सङ्ग्रामेऽद्भुतदर्शने।
निहत्य पृतनामध्यं संशप्तकगणान्बहून्।
अर्जुनो जयतां श्रेष्ठो वासुदेवमथाब्रवीत्॥ 8-51-83(57569)
प्रभग्नं बलमेतद्धि योत्स्यमानं मया सह।
एते धावन्ति सगणाः संशप्तकमहारथाः॥ 8-51-84(57570)
`दुर्जया ह्येव समरे देवैरपि सवासवैः'।
अपारयन्तो मद्बाणान्सिंहशब्दं मृगा इव॥ 8-51-85(57571)
दीर्यते च महत्सैन्यं सृञ्जयानां महारणे।
`कुरवश्चाभिधावन्ति भीमसेनभयार्दिताः'॥ 8-51-86(57572)
हस्तिकक्ष्यो ह्यसौ कृष्ण केतुः कर्णस्य धीमतः।
दृश्यते राजसैन्यस्य मध्ये विचरतो मुहुः॥ 8-51-87(57573)
न च कर्णं रणे शक्ता जेतुमेते महारथाः।
जानीते हि भवान्कर्णं वीर्यवन्तं पराक्रमे॥ 8-51-88(57574)
तत्र याहि यतः कर्णो द्रावयत्येष नो बलम्।
त्रिगर्तान्वर्जयन्याहि सूतपुत्रं महारथम्।
एतन्मे रोचते कृष्ण यथा वा तव रोचते॥ 8-51-89(57575)
एतच्छ्रुत्वा वचस्तस्य गोविन्दः प्रहसन्निव।
अब्रवीदर्जुनं तूर्णं कौरवान्याहि पाण्डव॥ 8-51-90(57576)
ततस्तव महासैन्यं गोविन्दप्रेरिता हयाः।
हंसवर्णा विशंस्तूर्णं वहन्तोऽर्जुनमाहवे॥ 8-51-91(57577)
केशवप्रेरितैरश्वैः श्वेतैः काञ्चनभूषणैः।
प्रविशद्भिस्तव बलं चतुर्दिशमदीर्यत॥ 8-51-92(57578)
मेघस्तनितनिर्हादः स रथो वानरध्वजः।
चलत्पताकस्तां सेनां विमानं द्यामिवाविशत्॥ 8-51-93(57579)
तौ विदार्य महासेनां प्रविष्टौ केशवार्जुनो।
क्रुद्धौ संरम्भरक्ताक्षौ विभ्राजेतां महाद्युती॥ 8-51-94(57580)
युद्धशौण्डौ समाहूतावागतौ तौ रणाध्वरम्।
यज्वभिर्विधिना हूतौ मखं देवाविवाश्विनौ॥ 8-51-95(57581)
`क्रोधताम्रेक्षणौ शूरौ शुशुभाते महाबलौ।
मदोत्कटौ यथा नागौ दृष्टिसञ्चारचारिणौ'॥ 8-51-96(57582)
क्रुद्धौ तौ तु नरव्याघ्रो योगवन्तौ बभूवतुः।
तलशब्देन रुषितौ महानागाविवोत्कटौ॥ 8-51-97(57583)
विगाह्य तु रथानीकमश्वसङ्घांश्च फल्गुनः।
व्यचरत्पृतनामध्ये पाशहस्त इवानत्कः॥ 8-51-98(57584)
तं दृष्ट्वा युधि विक्रान्तं सेनायां तव भारत।
संशप्तकगणान्भूयः पुत्रस्ते समचूचुदत्॥ 8-51-99(57585)
ततो रथसहस्रेण द्विरदानां त्रिभिः शतैः।
चतुर्दशसहस्रैस्तु तुरगाणां महाहवे।
द्वाभ्यां शतसहस्राभ्यां पदातीनां च धन्विनाम्॥ 8-51-100(57586)
शूराणां लब्धलक्षाणां विदितानां समन्ततः।
अभ्यवर्तन्त कौन्तेयं छादयन्तो महारथाः॥ 8-51-100(57587)
शरवर्षैर्महाराज सर्वतः पाण्डुनन्दनम्।
स च्छाद्यमानः समरे शरैः परबलार्दनः॥ 8-51-101(57588)
दर्शयन्रौद्रमात्मानं पाशहस्त इवान्तकः।
निघ्नन्संशप्तकान्पार्थः प्रेक्षणीयतरोऽभवत्॥ 8-51-102(57589)
ततो विद्युत्प्रभैर्बाणैः कार्तस्वरविभूषितैः।
निरन्तरमिवाकाशमासीच्छन्नं किरीटिना॥ 8-51-103(57590)
किरीटिचापनिर्मुक्तैः सम्पतद्भिर्महाशरैः।
समाच्छन्नं बभौ सर्वं काद्रवेयैरिव प्रभो॥ 8-51-104(57591)
रुक्मपुङ्खाञ्शरान्घोरान्प्रसन्नान्नतपर्वणः।
अवासृजदमेयात्मा दिक्षु सर्वासु पाण्डवः॥ 8-51-105(57592)
मही वियद्दिशः सर्वाः समुद्रा गिरयोऽपि वा।
स्फुटन्तीति जना जज्ञुः पार्थस्य तलनिःस्वनात्॥ 8-51-106(57593)
हत्वा दशसहस्राणि पार्थिवानां महारथः।
संशप्तकानां कौन्तेयः प्रपक्षं त्वरितोभ्ययात्॥ 8-51-107(57594)
प्रपक्षं च समासाद्य पार्थः काम्भोजरक्षितम्।
प्रममाथ बलं भल्लैर्दानवानिव वासवः॥ 8-51-108(57595)
प्रचिच्छेदाशु भल्लेन द्विषतामाततायिनाम्।
शस्त्रपाणींस्तथा बाहूंस्तथापि च शिरांस्युत॥ 8-51-109(57596)
अङ्गांङ्गावयवैश्छिन्नैर्व्यायुधास्तेऽपतन्भुवि।
विष्वग्वाताभिसम्भग्ना बहुशाखा इव द्रुमाः॥ 8-51-110(57597)
हस्त्यश्वरथपत्तीनां व्रातान्निघ्नन्तमर्जुनम्।
सुदक्षिणादवरजः शरवृष्ट्याभ्यवीवृषत्॥ 8-51-112(57598)
तस्यास्यतोऽर्धचन्द्राभ्यां स बाहू परिघोपमौ।
पूर्णचन्द्राभवक्त्रं च क्षुरेणापाहरच्छिरः॥ 8-51-113(57599)
तत्पपात ततो वेगात्स्वलोहितपरिष्कृतम्।
मनः शिलागिरेः शृङ्गं व्ज्रेणेवावदारितम्॥ 8-51-114(57600)
सुदक्षिणादवरजं काम्भोजा ददृशुर्हतम्।
प्रांशुं कमलपत्राक्षमत्यर्थं प्रियदर्शनम्।
काञ्चनस्तम्भसदृशं भिन्नं हेमगिरिं यथा॥ 8-51-115(57601)
ततोऽभवत्पुनर्युद्धं घोरमत्यर्थमद्भुतम्।
नानावस्थाश्च योधानां बभूवुस्तत्र युध्यताम्॥ 8-51-116(57602)
पार्थेषुनिहतैरश्वैः काम्भोजैर्यवनैः शकैः।
शोणिताक्तैस्तदा रक्तं सर्वामासीद्विशां पते॥ 8-51-117(57603)
रथैर्हताश्वसूतैश्च हतारोहैश्च वाजिभिः।
द्विरदैश्च हतारोहैर्महामात्रैर्हतद्विपैः॥ 8-51-118(57604)
अन्योन्येन महाराज विनाशः पृथिवीक्षिताम्।
आसीत्क्रुद्वेऽर्जुने कर्णे भीमसेने च दारुणम्॥ 8-51-119(57605)
तस्पिन्प्रपक्षे पक्षे च वध्यमाने मदोत्कटः।
अर्जुनं जयतां श्रेष्ठं त्वरितो द्रौणिरभ्ययात्॥ 8-51-120(57606)
विधुन्वानो महच्चापं कार्तस्वरविभूषितम्।
आददानः शरान्घोरान्स्वरश्मीनिव भास्करः॥ 8-51-121(57607)
तयोरासीन्महद्युद्धं धर्मभ्रात्रोरनैष्ठिकम्।
विस्मापयिषतोर्लोकं यशश्चोत्तममिच्छतोः॥ 8-51-122(57608)
संशप्तकांस्तु कौन्तेयः कुरूंश्चापि वृकोदरः।
सूतपुत्रस्तु पाञ्चालांस्त्रयोऽघ्नंस्त्वरिताः शरैः॥ 8-51-123(57609)
एवमेष महाराज विनाशः पृथिवीक्षिताम्।
युद्वं घोरं तथा त्वासीत्त्रिधाभूते चमूमुखे॥ ॥ 8-51-124(57610)
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे एकपञ्चाशोऽध्यायः॥ 51 ॥ *.एतदनन्तरं झ.पुस्तके विद्यमाना कथा अस्मिन्पाठे---57--58 तमाध्याययोर्वर्तते।


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|